ऋषिः - ब्रह्मा

देवता - गौः, विराट्, अध्यात्मम्

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम्। विश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥

स्वर सहित पद पाठ

त्रय॑ः । के॒शिन॑ः। ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । स॒म्ऽव॒त्स॒रे । व॒प॒ते॒ । एक॑ः । ए॒षा॒म् । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचष्टे॑ । शची॑भिः । ध्राजि॑ः । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥१५.२६॥


स्वर रहित मन्त्र

त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम्। विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥


स्वर रहित पद पाठ

त्रयः । केशिनः। ऋतुऽथा । वि । चक्षते । सम्ऽवत्सरे । वपते । एकः । एषाम् । विश्वम् । अन्यः । अभिऽचष्टे । शचीभिः । ध्राजिः । एकस्य । ददृशे । न । रूपम् ॥१५.२६॥