ऋषिः - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती
स्वरः - आत्मा सूक्त
वि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑तिः । वि॒ऽराट् । मृ॒त्युः । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒जः । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । सः । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥
विऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपतिः । विऽराट् । मृत्युः । साध्यानाम् । अधिऽराजः । बभूव । तस्य । भूतम् । भव्यम् । वशे । सः । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥