ऋषिः - ब्रह्मा

देवता - गौः, विराट्, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तोऽर्ध॒र्चेन॑ चाक्लृपु॒र्विश्व॒मेज॑त्। त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥

स्वर सहित पद पाठ

ऋ॒चः । प॒दम् । मात्र॑या । क॒ल्पय॑न्तः । अ॒र्ध॒ऽऋ॒चेन॑ । च॒क्लृ॒प॒ः । विश्व॑म् । एज॑त् । त्रि॒ऽपात् । ब्रह्म॑ । पु॒रु॒ऽरूप॑म् । वि । त॒स्थे॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑ः । चत॑स्रः ॥१५.१९॥


स्वर रहित मन्त्र

ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चाक्लृपुर्विश्वमेजत्। त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥


स्वर रहित पद पाठ

ऋचः । पदम् । मात्रया । कल्पयन्तः । अर्धऽऋचेन । चक्लृपः । विश्वम् । एजत् । त्रिऽपात् । ब्रह्म । पुरुऽरूपम् । वि । तस्थे । तेन । जीवन्ति । प्रऽदिशः । चतस्रः ॥१५.१९॥