ऋषिः - ब्रह्मा

देवता - गौः, विराट्, अध्यात्मम्

छन्दः - जगती

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि। ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ॥

स्वर सहित पद पाठ

स॒प्त । अ॒र्ध॒ऽग॒र्भाः । भुव॑नस्य । रेत॑ः । विष्णो॑ः । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि । ते । धी॒तिऽभि॑ः । मन॑सा । ते । वि॒प॒ःऽचित॑ः । प॒रि॒ऽभुव॑ः । परि॑ । भ॒व॒न्ति॒ । वि॒श्वत॑ः ॥१५.१७॥


स्वर रहित मन्त्र

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि। ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥


स्वर रहित पद पाठ

सप्त । अर्धऽगर्भाः । भुवनस्य । रेतः । विष्णोः । तिष्ठन्ति । प्रऽदिशा । विऽधर्मणि । ते । धीतिऽभिः । मनसा । ते । विपःऽचितः । परिऽभुवः । परि । भवन्ति । विश्वतः ॥१५.१७॥