ऋषिः - ब्रह्मा

देवता - गौः, विराट्, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

द्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम्। उ॑त्ता॒नयो॑श्च॒म्वो॒र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥

स्वर सहित पद पाठ

द्यौः । न॒ः । पि॒ता । ज॒नि॒ता । नाभि॑ः । अत्र॑ । बन्धु॑ः । न॒ः । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् । उ॒त्ता॒नयो॑ः । च॒म्वो᳡ः । योनि॑ः । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्भ॑म्‌ । आ । अ॒घा॒त् ॥१५.१२॥


स्वर रहित मन्त्र

द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम्। उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥


स्वर रहित पद पाठ

द्यौः । नः । पिता । जनिता । नाभिः । अत्र । बन्धुः । नः । माता । पृथिवी । मही । इयम् । उत्तानयोः । चम्वो᳡ः । योनिः । अन्तः । अत्र । पिता । दुहितुः । गर्भम्‌ । आ । अघात् ॥१५.१२॥