ऋषिः - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - मधु विद्या सूक्त
मधो॑ः । कशा॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । तस्या॑ः । गर्भ॑ः । अ॒भ॒व॒त् । वि॒श्वऽरू॑पः । तम् । जा॒तम् । तरु॑णम् । पि॒प॒र्ति॒ । मा॒ता । सः । जा॒तः । विश्वा॑ । भुव॑ना । वि । च॒ष्टे॒ ॥१.५॥
मधोः । कशाम् । अजनयन्त । देवाः । तस्याः । गर्भः । अभवत् । विश्वऽरूपः । तम् । जातम् । तरुणम् । पिपर्ति । माता । सः । जातः । विश्वा । भुवना । वि । चष्टे ॥१.५॥