ऋषिः - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्र्यवसाना षट्पदाष्टिः
स्वरः - मधु विद्या सूक्त
यत् । वी॒ध्रे । स्त॒नय॑ति । प्र॒जाऽप॑तिः । ए॒व । तत् । प्र॒ऽजाभ्य॑ः । प्रा॒दुः । भ॒व॒ति॒ । तस्मा॑त् । प्रा॒ची॒न॒ऽउ॒प॒वी॒तः । ति॒ष्ठे॒ । प्रजा॑ऽपते । अनु॑ । मा॒ । बु॒ध्य॒स्य॒ । इति॑ । अनु॑ । ए॒न॒म् । प्र॒ऽजाः । अनु॑ । प्र॒जाऽप॑तिः । बु॒ध्य॒ते॒ । यः । ए॒वम् । वेद॑ ॥१.२४॥
यत् । वीध्रे । स्तनयति । प्रजाऽपतिः । एव । तत् । प्रऽजाभ्यः । प्रादुः । भवति । तस्मात् । प्राचीनऽउपवीतः । तिष्ठे । प्रजाऽपते । अनु । मा । बुध्यस्य । इति । अनु । एनम् । प्रऽजाः । अनु । प्रजाऽपतिः । बुध्यते । यः । एवम् । वेद ॥१.२४॥