ऋषिः - अथर्वा

देवता - मधु, अश्विनौ

छन्दः - त्रिब्टुगर्भा पङ्क्तिः

स्वरः - मधु विद्या सूक्त

PreviousNext
स्वर सहित मन्त्र

म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥

स्वर सहित पद पाठ

म॒हत् । पय॑ः । वि॒श्वऽरू॑पम् । अ॒स्या॒ः । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑ः । आ॒हु॒ः । यत॑ः । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒णः । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥


स्वर रहित मन्त्र

महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः। यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥


स्वर रहित पद पाठ

महत् । पयः । विश्वऽरूपम् । अस्याः । समुद्रस्य । त्वा । उत । रेतः । आहुः । यतः । आऽएति । मधुऽकशा। रराणा । तत् । प्राणः । तत् । अमृतम् । निऽविष्टम् ॥१.२॥