ऋषिः - अथर्वा

देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः

छन्दः - अनुष्टुप्

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

बृ॑ह॒ती परि॒ मात्रा॑या मा॒तुर्मात्राधि॒ निर्मि॑ता। मा॒या ह॑ जज्ञे मा॒याया॑ मा॒याया॒ मात॑ली॒ परि॑ ॥

स्वर सहित पद पाठ

बृ॒ह॒ती । परि॑ । मात्रा॑याः । मा॒तुः । मात्रा॑ । अधि॑ । निःऽमि॑ता । मा॒या । ह॒ । ज॒ज्ञे॒ । मा॒याया॑ः । मा॒याया॑ः । मात॑ली । परि॑ ॥९.५॥


स्वर रहित मन्त्र

बृहती परि मात्राया मातुर्मात्राधि निर्मिता। माया ह जज्ञे मायाया मायाया मातली परि ॥


स्वर रहित पद पाठ

बृहती । परि । मात्रायाः । मातुः । मात्रा । अधि । निःऽमिता । माया । ह । जज्ञे । मायायाः । मायायाः । मातली । परि ॥९.५॥