ऋषिः - अथर्वा

देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः

छन्दः - अनुष्टुप्

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

ए॒को गौरेक॑ एकऋ॒षिरेकं॒ धामै॑क॒धाशिषः॑। य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुर्नाति॑ रिच्यते ॥

स्वर सहित पद पाठ

एक॑ः । गौः । एक॑ः । ए॒क॒ऽऋ॒षिः । एक॑म् । धाम॑ । ए॒क॒ऽधा । आ॒ऽशिष॑ः । य॒क्षम् । पृ॒थि॒व्याम् । ए॒क॒ऽवृत् । ए॒क॒ऽऋ॒तुः । न । अति॑ । रि॒च्य॒ते॒ ॥९.२६॥


स्वर रहित मन्त्र

एको गौरेक एकऋषिरेकं धामैकधाशिषः। यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥


स्वर रहित पद पाठ

एकः । गौः । एकः । एकऽऋषिः । एकम् । धाम । एकऽधा । आऽशिषः । यक्षम् । पृथिव्याम् । एकऽवृत् । एकऽऋतुः । न । अति । रिच्यते ॥९.२६॥