ऋषिः - अथर्वा

देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः

छन्दः - जगती

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑। स॑मा॒नज॑न्मा॒ क्रतु॑रस्ति॒ वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन् ॥

स्वर सहित पद पाठ

इ॒त्थम् । श्रेय॑ः । मन्य॑मानाः । इ॒दम् । आ । अ॒ग॒म॒म् । यु॒ष्माक॑म् । स॒ख्ये । अ॒हम् । अ॒स्मि॒ । शेवा॑ । स॒मा॒नऽज॑न्मा । क्रतु॑ः । अ॒स्ति॒ । व॒ः । शि॒वः । सः । व॒ः । सर्वा॑ः । सम् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥९.२२॥


स्वर रहित मन्त्र

इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा। समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥


स्वर रहित पद पाठ

इत्थम् । श्रेयः । मन्यमानाः । इदम् । आ । अगमम् । युष्माकम् । सख्ये । अहम् । अस्मि । शेवा । समानऽजन्मा । क्रतुः । अस्ति । वः । शिवः । सः । वः । सर्वाः । सम् । चरति । प्रऽजानन् ॥९.२२॥