ऋषिः - अथर्वा

देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः

छन्दः - त्रिष्टुप्

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

पञ्च॒ व्युष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑। पञ्च॒ दिशः॑ पञ्चद॒शेन॒ क्लृप्तास्ता एक॑मूर्ध्नीर॒भि लो॒कमेक॑म् ॥

स्वर सहित पद पाठ

पञ्च॑ । विऽउ॑ष्टीः । अनु॑ । पञ्च॑ । दोहा॑ः । गाम् । पञ्च॑ऽनाम्नीम् । ऋ॒तव॑ः । अनु॑ । पञ्च॑ । पञ्च॑ । दिश॑ः । प॒ञ्च॒ऽद॒शेन॑ । क्लृ॒प्ताः । ताः । एक॑ऽमूर्ध्नीः । अ॒भि । लो॒कम् । एक॑म् ॥९.१५॥


स्वर रहित मन्त्र

पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च। पञ्च दिशः पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥


स्वर रहित पद पाठ

पञ्च । विऽउष्टीः । अनु । पञ्च । दोहाः । गाम् । पञ्चऽनाम्नीम् । ऋतवः । अनु । पञ्च । पञ्च । दिशः । पञ्चऽदशेन । क्लृप्ताः । ताः । एकऽमूर्ध्नीः । अभि । लोकम् । एकम् ॥९.१५॥