ऋषिः - अथर्वा

देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः

छन्दः - त्रिष्टुप्

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

कुत॒स्तौ जा॒तौ क॑त॒मः सो अर्धः॒ कस्मा॑ल्लो॒कात्क॑त॒मस्याः॑ पृथि॒व्याः। व॒त्सौ वि॒राजः॑ सलि॒लादुदै॑तां॒ तौ त्वा॑ पृच्छामि कत॒रेण॑ दु॒ग्धा ॥

स्वर सहित पद पाठ

कुत॑ः । तौ । जा॒तौ । क॒त॒मः । सः । अर्ध॑ः । कस्मा॑त् । लो॒कात् । क॒त॒मस्या॑ः । पृ॒थि॒व्याः । व॒त्सौ । वि॒ऽराज॑ः । स॒लि॒लात् । उत् । ऐ॒ता॒म् । तौ । त्वा॒ । पृ॒च्छा॒मि॒ । क॒त॒रेण॑ । दु॒ग्धा ॥९.१॥


स्वर रहित मन्त्र

कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः। वत्सौ विराजः सलिलादुदैतां तौ त्वा पृच्छामि कतरेण दुग्धा ॥


स्वर रहित पद पाठ

कुतः । तौ । जातौ । कतमः । सः । अर्धः । कस्मात् । लोकात् । कतमस्याः । पृथिव्याः । वत्सौ । विऽराजः । सलिलात् । उत् । ऐताम् । तौ । त्वा । पृच्छामि । कतरेण । दुग्धा ॥९.१॥