ऋषिः - भृग्वङ्गिराः

देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः

छन्दः - उपरिष्टाद्बृहती

स्वरः - शत्रुपराजय सूक्त

PreviousNext
स्वर सहित मन्त्र

सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्। इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥

स्वर सहित पद पाठ

स॒म्ऽव॒त्स॒रः । रथ॑ः । प॒रि॒ऽव॒त्स॒रः । र॒थ॒ऽउ॒प॒स्थः । वि॒ऽराट् । ई॒षा । अ॒ग्निः । र॒थ॒ऽमु॒खम् । इन्द्र॑ः । स॒व्य॒ऽस्थाः । च॒न्द्रमा॑ः । सार॑थिः ॥८.२३॥


स्वर रहित मन्त्र

संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम्। इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥


स्वर रहित पद पाठ

सम्ऽवत्सरः । रथः । परिऽवत्सरः । रथऽउपस्थः । विऽराट् । ईषा । अग्निः । रथऽमुखम् । इन्द्रः । सव्यऽस्थाः । चन्द्रमाः । सारथिः ॥८.२३॥