atharvaveda/8/7/5

यद्वः॒ सहः॑ सहमाना वी॒र्यं यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥

यत् । व॒: । सह॑: । स॒ह॒मा॒ना॒: । वी॒र्य᳡म् । यत् । च॒ । व॒: । बल॑म् । तेन॑ । इ॒मम् । अ॒स्मात् । यक्ष्मा॑त् । पुरु॑षम् । मु॒ञ्च॒त॒ । ओ॒ष॒धी॒: । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् ॥७.५॥

ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - पथ्यापङ्क्तिः

स्वरः - ओषधि समूह सूक्त

स्वर सहित मन्त्र

यद्वः॒ सहः॑ सहमाना वी॒र्यं यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥

स्वर सहित पद पाठ

यत् । व॒: । सह॑: । स॒ह॒मा॒ना॒: । वी॒र्य᳡म् । यत् । च॒ । व॒: । बल॑म् । तेन॑ । इ॒मम् । अ॒स्मात् । यक्ष्मा॑त् । पुरु॑षम् । मु॒ञ्च॒त॒ । ओ॒ष॒धी॒: । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् ॥७.५॥


स्वर रहित मन्त्र

यद्वः सहः सहमाना वीर्यं यच्च वो बलम्। तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥


स्वर रहित पद पाठ

यत् । व: । सह: । सहमाना: । वीर्य᳡म् । यत् । च । व: । बलम् । तेन । इमम् । अस्मात् । यक्ष्मात् । पुरुषम् । मुञ्चत । ओषधी: । अथो इति । कृणोमि । भेषजम् ॥७.५॥