ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - पथ्यापङ्क्तिः

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥

स्वर सहित पद पाठ

याव॑तीनाम् । ओष॑धीनाम् । गाव॑ः । प्र॒ऽअ॒श्नन्ति॑ । अ॒घ्न्याः । याव॑तीनाम् । अ॒ज॒ऽअ॒वय॑ः । ताव॑तीः । तुभ्य॑म् । ओष॑धीः । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ताः ॥७.२५॥


स्वर रहित मन्त्र

यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यावतीनामजावयः। तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥


स्वर रहित पद पाठ

यावतीनाम् । ओषधीनाम् । गावः । प्रऽअश्नन्ति । अघ्न्याः । यावतीनाम् । अजऽअवयः । तावतीः । तुभ्यम् । ओषधीः । शर्म । यच्छन्तु । आऽभृताः ॥७.२५॥