ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः। वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑। मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥

स्वर सहित पद पाठ

याः । सु॒ऽप॒र्णाः । आ॒ङ्गि॒र॒सीः । दि॒व्याः । याः । र॒घट॑ः । वि॒दुः । वयां॑सि । हं॒साः । याः । वि॒दुः । याः । च॒ । सर्वे॑ । प॒त॒त्रिण॑ः । मृ॒गाः । याः । वि॒दुः । ओष॑धीः । ताः । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२४॥


स्वर रहित मन्त्र

याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः। वयांसि हंसा या विदुर्याश्च सर्वे पतत्त्रिणः। मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥


स्वर रहित पद पाठ

याः । सुऽपर्णाः । आङ्गिरसीः । दिव्याः । याः । रघटः । विदुः । वयांसि । हंसाः । याः । विदुः । याः । च । सर्वे । पतत्रिणः । मृगाः । याः । विदुः । ओषधीः । ताः । अस्मै । अवसे । हुवे ॥७.२४॥