ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा। अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ॥

स्वर सहित पद पाठ

याः । च॒ । अ॒हम् । वेद॑ । वी॒रुध॑ः । याः । च॒ । पश्या॑मि । चक्षु॑षा । अज्ञा॑ताः । जा॒नी॒मः । च॒ । याः । यासु॑ । वि॒द्म । च॒ । सम्ऽभृ॑तम् ॥७.१८॥


स्वर रहित मन्त्र

याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा। अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥


स्वर रहित पद पाठ

याः । च । अहम् । वेद । वीरुधः । याः । च । पश्यामि । चक्षुषा । अज्ञाताः । जानीमः । च । याः । यासु । विद्म । च । सम्ऽभृतम् ॥७.१८॥