ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च। ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥

स्वर सहित पद पाठ

याः । रोह॑न्ति । आ॒ङ्गि॒र॒सीः । पर्व॑तेषु । स॒मेषु॑ । च॒ । ताः । न॒ः । पय॑स्वतीः । शि॒वाः । ओष॑धीः । स॒न्तु॒ । शम् । हृ॒दे ॥७.१७॥


स्वर रहित मन्त्र

या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥


स्वर रहित पद पाठ

याः । रोहन्ति । आङ्गिरसीः । पर्वतेषु । समेषु । च । ताः । नः । पयस्वतीः । शिवाः । ओषधीः । सन्तु । शम् । हृदे ॥७.१७॥