ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

मु॑मुचा॒ना ओष॑धयो॒ऽग्नेर्वै॑श्वान॒रादधि॑। भूमिं॑ सन्तन्व॒तीरि॑त॒ यासां॒ राजा॒ वन॒स्पतिः॑ ॥

स्वर सहित पद पाठ

मु॒मु॒चा॒नाः । ओष॑धयः । अ॒ग्नेः । वै॒श्वा॒न॒रात् । अधि॑ । भूमि॑म् । स॒म्ऽत॒न्व॒तीः । इ॒त॒ । यासा॑म् । राजा॑ । वन॒स्पति॑ः ॥७.१६॥


स्वर रहित मन्त्र

मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि। भूमिं सन्तन्वतीरित यासां राजा वनस्पतिः ॥


स्वर रहित पद पाठ

मुमुचानाः । ओषधयः । अग्नेः । वैश्वानरात् । अधि । भूमिम् । सम्ऽतन्वतीः । इत । यासाम् । राजा । वनस्पतिः ॥७.१६॥