atharvaveda/8/7/15

सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या एतु स्रो॒त्याः ॥

सिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥

ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

स्वर सहित मन्त्र

सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या एतु स्रो॒त्याः ॥

स्वर सहित पद पाठ

सिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥


स्वर रहित मन्त्र

सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः। गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥


स्वर रहित पद पाठ

सिंहस्यऽइव । स्तनयो: । सम् । विजन्ते । अग्ने:ऽइव । विजन्ते । आऽभृताभ्य: । गवाम् । यक्ष्म: । पुरुषाणाम् । वीरत्ऽभि: । अतिऽनुत्त: । नाव्या᳡: । एतु । स्रोत्या: ॥७.१५॥