ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

याव॑तीः । किय॑तीः । च॒ । इ॒माः । पृ॒थि॒व्याम् । अधि॑ । ओष॑धीः । ताः । मा॒ । स॒ह॒स्र॒ऽप॒र्ण्य᳡ः । मृ॒त्योः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥७.१३॥


स्वर रहित मन्त्र

यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः। ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

यावतीः । कियतीः । च । इमाः । पृथिव्याम् । अधि । ओषधीः । ताः । मा । सहस्रऽपर्ण्य᳡ः । मृत्योः । मुञ्चन्तु । अंहसः ॥७.१३॥