ऋषिः - अथर्वा

देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः

छन्दः - अनुष्टुप्

स्वरः - ओषधि समूह सूक्त

PreviousNext
स्वर सहित मन्त्र

अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥

स्वर सहित पद पाठ

अ॒प॒ऽक्री॒ताः । सही॑यसीः । वी॒रुध॑ः । याः । अ॒भिऽस्तु॑ताः । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥


स्वर रहित मन्त्र

अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः। त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् ॥


स्वर रहित पद पाठ

अपऽक्रीताः । सहीयसीः । वीरुधः । याः । अभिऽस्तुताः । त्रायन्ताम् । अस्मिन् । ग्रामे । गाम् । अश्वम् । पुरुषम् । पशुम् ॥७.११॥