ऋषिः - मातृनामा
देवता - ब्रह्मणस्पति
छन्दः - सप्तपदा शक्वरी
स्वरः - गर्भदोषनिवारण सूक्त
येषा॑म् । प॒श्चात् । प्रऽप॑दानि । पु॒रः । पार्ष्णी॑ः । पु॒रः । मुखा॑ । ख॒ल॒ऽजाः । श॒क॒धू॒म॒ऽजाः । उरु॑ण्डाः । ये । च॒ । म॒ट्म॒टाः । कु॒म्भऽमु॑ष्काः । अ॒या॒शव॑ः । तान् । अ॒स्याः । ब्र॒ह्म॒ण॒ः । प॒ते॒ । प्र॒ति॒ऽबो॒धेन॑ । ना॒श॒य॒ ॥६.१५॥
येषाम् । पश्चात् । प्रऽपदानि । पुरः । पार्ष्णीः । पुरः । मुखा । खलऽजाः । शकधूमऽजाः । उरुण्डाः । ये । च । मट्मटाः । कुम्भऽमुष्काः । अयाशवः । तान् । अस्याः । ब्रह्मणः । पते । प्रतिऽबोधेन । नाशय ॥६.१५॥