ऋषिः - मातृनामा

देवता - मातृनामा अथवा मन्त्रोक्ताः

छन्दः - पथ्यापङ्क्तिः

स्वरः - गर्भदोषनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति। क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥

स्वर सहित पद पाठ

ये । कु॒कुन्धा॑ः । कु॒कूर॑भाः । कृत्ती॑ः । दू॒र्शानि॑ । बिभ्र॑ति । क्ली॒बाःऽइ॑व । प्र॒ऽनृत्य॑न्तः । वने॑ । ये । कु॒र्वते॑ । घोष॑म् । तान् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥६.११॥


स्वर रहित मन्त्र

ये कुकुन्धाः कुकूरभाः कृत्तीर्दूर्शानि बिभ्रति। क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तानितो नाशयामसि ॥


स्वर रहित पद पाठ

ये । कुकुन्धाः । कुकूरभाः । कृत्तीः । दूर्शानि । बिभ्रति । क्लीबाःऽइव । प्रऽनृत्यन्तः । वने । ये । कुर्वते । घोषम् । तान् । इतः । नाशयामसि ॥६.११॥