ऋषिः - शुक्रः

देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः

छन्दः - चतुष्पदा पुरस्कृतिर्जगती

स्वरः - प्रतिसरमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः। उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या अति॑ ॥

स्वर सहित पद पाठ

याः । कृ॒त्याः । आ॒ङ्गि॒र॒सीः । याः । कृ॒त्याः । आ॒सु॒रीः । याः। कृ॒त्याः । स्व॒यम्ऽकृता॑ः । याः । ऊं॒ इति॑ । च॒ । अ॒न्येभि॑ः । आऽभृ॑ताः । उ॒भयी॑ः । ताः । परा॑ । य॒न्तु॒ । प॒रा॒ऽवत॑ः । न॒व॒तिम् । ना॒व्या᳡ः । अति॑ ॥५.९॥


स्वर रहित मन्त्र

याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः कृत्याः स्वयंकृता या उ चान्येभिराभृताः। उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥


स्वर रहित पद पाठ

याः । कृत्याः । आङ्गिरसीः । याः । कृत्याः । आसुरीः । याः। कृत्याः । स्वयम्ऽकृताः । याः । ऊं इति । च । अन्येभिः । आऽभृताः । उभयीः । ताः । परा । यन्तु । पराऽवतः । नवतिम् । नाव्या᳡ः । अति ॥५.९॥