ऋषिः - शुक्रः

देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः

छन्दः - उपरिष्टाद्बृहती

स्वरः - प्रतिसरमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥

स्वर सहित पद पाठ

अ॒न्तः । द॒धे॒ । द्यावा॑पृथि॒वी इति॑ । उ॒त । अह॑ः । उ॒त । सूर्य॑म् । ते । मे॒ । दे॒वाः । पु॒रःऽहि॑ताः । प्र॒तीची॑ः । कृ॒त्याः । प्र॒ति॒ऽस॒रैः । अ॒ज॒न्तु॒ ॥५.६॥


स्वर रहित मन्त्र

अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम्। ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥


स्वर रहित पद पाठ

अन्तः । दधे । द्यावापृथिवी इति । उत । अहः । उत । सूर्यम् । ते । मे । देवाः । पुरःऽहिताः । प्रतीचीः । कृत्याः । प्रतिऽसरैः । अजन्तु ॥५.६॥