ऋषिः - शुक्रः

देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः

छन्दः - त्र्यवसाना षट्पदा जगती

स्वरः - प्रतिसरमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्। अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णेज॑यत्। म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥

स्वर सहित पद पाठ

क॒श्यप॑ः । त्वाम् । अ॒सृ॒ज॒त॒ । क॒श्यप॑ः । त्वा॒ । सम् । ऐ॒र॒य॒त् । अबि॑भः । त्वा॒। इन्द्र॑ः । मानु॑षे । बिभ्र॑त् । स॒म्ऽश्रे॒षि॒णे । अ॒ज॒य॒त् । म॒णिम् । स॒हस्र॑ऽवीर्यम् । वर्म । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥५.१४॥


स्वर रहित मन्त्र

कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेजयत्। मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥


स्वर रहित पद पाठ

कश्यपः । त्वाम् । असृजत । कश्यपः । त्वा । सम् । ऐरयत् । अबिभः । त्वा। इन्द्रः । मानुषे । बिभ्रत् । सम्ऽश्रेषिणे । अजयत् । मणिम् । सहस्रऽवीर्यम् । वर्म । देवाः । अकृण्वत ॥५.१४॥