ऋषिः - शुक्रः

देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः

छन्दः - चतुष्पदा भुरिग्जगती

स्वरः - प्रतिसरमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑। सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥

स्वर सहित पद पाठ

न । ए॒न॒म् । घ्न॒न्ति॒ । अ॒प्स॒रस॑ः । न । ग॒न्ध॒र्वाः । न । मर्त्या॑ः । सर्वा॑ः । दिश॑ः । वि । रा॒ज॒ति॒ । यः । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१३॥


स्वर रहित मन्त्र

नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः। सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥


स्वर रहित पद पाठ

न । एनम् । घ्नन्ति । अप्सरसः । न । गन्धर्वाः । न । मर्त्याः । सर्वाः । दिशः । वि । राजति । यः । बिभर्ति । इमम् । मणिम् ॥५.१३॥