ऋषिः - शुक्रः

देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः

छन्दः - उपरिष्टाद्बृहती

स्वरः - प्रतिसरमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते। वी॒र्यवान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥

स्वर सहित पद पाठ

अ॒यम् । प्र॒ति॒ऽस॒रः । म॒णिः । वी॒रः । वी॒राय॑ । ब॒ध्य॒ते॒ । वी॒र्य᳡वान् । स॒प॒त्न॒ऽहा । शूर॑ऽवीरः । प॒रि॒ऽपान॑ः । सु॒ऽम॒ङ्गल॑ः ॥५.१॥


स्वर रहित मन्त्र

अयं प्रतिसरो मणिर्वीरो वीराय बध्यते। वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥


स्वर रहित पद पाठ

अयम् । प्रतिऽसरः । मणिः । वीरः । वीराय । बध्यते । वीर्य᳡वान् । सपत्नऽहा । शूरऽवीरः । परिऽपानः । सुऽमङ्गलः ॥५.१॥