ऋषिः - चातनः

देवता - इन्द्रासोमौ, अर्यमा

छन्दः - त्रिष्टुप्

स्वरः - शत्रुदमन सूक्त

PreviousNext
स्वर सहित मन्त्र

ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑। अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥

स्वर सहित पद पाठ

ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवै॑ः । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑ः । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोम॑ः । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥४.९॥


स्वर रहित मन्त्र

ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः। अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥


स्वर रहित पद पाठ

ये । पाकऽशंसम् । विऽहरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभिः । अहये । वा । तान् । प्रऽददातु । सोमः । आ । वा । दधातु । निःऽऋतेः । उपऽस्थे ॥४.९॥