ऋषिः - चातनः

देवता - इन्द्रासोमौ, अर्यमा

छन्दः - जगती

स्वरः - शत्रुदमन सूक्त

PreviousNext
स्वर सहित मन्त्र

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥

स्वर सहित पद पाठ

प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवै॑ः । ह॒तम् । द्रु॒हः । र॒क्षस॑ः । भ॒ङ्गु॒रऽव॑तः । इन्द्रा॑सोमा । दु॒ःऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । मा॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हुः ॥४.७॥


स्वर रहित मन्त्र

प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः। इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥


स्वर रहित पद पाठ

प्रति । स्मरेथाम् । तुजयत्ऽभिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुरऽवतः । इन्द्रासोमा । दुःऽकृते । मा । सुऽगम् । भूत् । यः । मा । कदा । चित् । अभिऽदासति । द्रुहुः ॥४.७॥