ऋषिः - चातनः

देवता - इन्द्रासोमौ, अर्यमा

छन्दः - जगती

स्वरः - शत्रुदमन सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒विवा॑सताम्। अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥

स्वर सहित पद पाठ

इन्द्र॑ः । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒वि॒ःऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् । अ॒भि । इत् । ऊं॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒तु॒ । र॒क्षस॑ः ॥४.२१॥


स्वर रहित मन्त्र

इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम्। अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥


स्वर रहित पद पाठ

इन्द्रः । यातूनाम् । अभवत् । पराऽशरः । हविःऽमथीनाम् । अभि । आऽविवासताम् । अभि । इत् । ऊं इति । शक्रः । परशुः । यथा । वनम् । पात्राऽइव । भिन्दन् । सतः । एतु । रक्षसः ॥४.२१॥