ऋषिः - चातनः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा। प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्ष्वे॑ ॥

स्वर सहित पद पाठ

वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा । प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दु॒ःऽएवा॑ः । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑ःऽभ्यः । वि॒ऽनिक्ष्वे॑ ॥३.२४॥


स्वर रहित मन्त्र

वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा। प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्ष्वे ॥


स्वर रहित पद पाठ

वि । ज्योतिषा । बृहता । भाति । अग्निः । आविः । विश्वानि । कृणुते । महिऽत्वा । प्र । अदेवीः । मायाः । सहते । दुःऽएवाः । शिशीते । शृङ्गे इति । रक्षःऽभ्यः । विऽनिक्ष्वे ॥३.२४॥