ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - अनुष्टुप्

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः। मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ॥

स्वर सहित पद पाठ

ये । मृ॒त्यव॑ः । एक॑ऽशतम् । याः । ना॒ष्ट्राः । अ॒ति॒ऽता॒र्या᳡ः । मु॒ञ्चन्तु॑ । तस्मा॑त् । त्वाम् । दे॒वाः । अ॒ग्नेः । वै॒श्वा॒न॒रात् । अधि॑ ॥२.२७॥


स्वर रहित मन्त्र

ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः। मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥


स्वर रहित पद पाठ

ये । मृत्यवः । एकऽशतम् । याः । नाष्ट्राः । अतिऽतार्या᳡ः । मुञ्चन्तु । तस्मात् । त्वाम् । देवाः । अग्नेः । वैश्वानरात् । अधि ॥२.२७॥