ऋषिः - ब्रह्मा
देवता - आयुः
छन्दः - सतःपङ्क्तिः
स्वरः - दीर्घायु सूक्त
श॒तम् । ते॒ । अ॒युत॑म् । हा॒य॒नान् । द्वे इति॑ । यु॒गे इति॑ । त्रीणि॑ । च॒त्वारि॑ । कृ॒ण्म॒ः । इ॒न्द्रा॒ग्नी इति॑ । विश्वे॑ । दे॒वाः । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमानाः ॥२.२१॥
शतम् । ते । अयुतम् । हायनान् । द्वे इति । युगे इति । त्रीणि । चत्वारि । कृण्मः । इन्द्राग्नी इति । विश्वे । देवाः । ते । अनु । मन्यन्ताम् । अहृणीयमानाः ॥२.२१॥