ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - पुरस्ताद्बृहती

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान्। रक्षो॒ यत्सर्वं॑ दुर्भू॒तं तत्तम॑ इ॒वाप॑ हन्मसि ॥

स्वर सहित पद पाठ

आ॒रात् । अरा॑तिम् । निःऽऋ॑तिम् । प॒रः । ग्राहि॑म् । क्र॒व्य॒ऽअद॑ । पि॒शा॒चान् । रक्ष॑ः । यत् । सर्व॑म् । दु॒ःऽभू॒तम् । तत् । तम॑ःऽइव । अप॑ । ह॒न्म॒सि॒ ॥२.१२॥


स्वर रहित मन्त्र

आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान्। रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥


स्वर रहित पद पाठ

आरात् । अरातिम् । निःऽऋतिम् । परः । ग्राहिम् । क्रव्यऽअद । पिशाचान् । रक्षः । यत् । सर्वम् । दुःऽभूतम् । तत् । तमःऽइव । अप । हन्मसि ॥२.१२॥