ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - त्रिपदा ब्राह्मी भुरिग्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां ति॑रो॒धामि॑तरज॒ना उप॑ जीवन्ति ति॒रो ध॑त्ते॒ सर्वं॑ पा॒प्मान॑मुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

ताम् । ति॒र॒:ऽधाम् । इ॒त॒र॒ऽज॒ना: । उप॑ । जी॒व॒न्ति॒ । ति॒र: । ध॒त्ते॒ । सर्व॑म् । पा॒प्मान॑म् । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१२॥


स्वर रहित मन्त्र

तां तिरोधामितरजना उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥


स्वर रहित पद पाठ

ताम् । तिर:ऽधाम् । इतरऽजना: । उप । जीवन्ति । तिर: । धत्ते । सर्वम् । पाप्मानम् । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.१२॥