ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदोष्णिक्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा म॑नु॒ष्या॒नाग॑च्छ॒त्तां म॑नु॒ष्या॒ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । उप॑ । अ॒ह्व॒य॒न्त॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति ॥१३.९॥


स्वर रहित मन्त्र

सोदक्रामत्सा मनुष्यानागच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । मनुष्यान् । आ । अगच्छत् । ताम् । मनुष्या᳡: । उप । अह्वयन्त । इराऽवति । आ । इहि । इति ॥१३.९॥