ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - आर्ची त्रिष्टुप्

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

ते कृ॒षिं च॑ स॒स्यं च॑ मनु॒ष्या॒ उप॑ जीवन्ति कृ॒ष्टरा॑धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

ते । कृ॒षिम् । च॒ । स॒त्यम् । च॒ । म॒नु॒ष्या᳡ः । उप॑ । जी॒व॒न्ति॒ । कृ॒ष्टऽरा॑धिः । उ॒प॒ऽजी॒व॒नीय॑ः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥१३.१२॥


स्वर रहित मन्त्र

ते कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥


स्वर रहित पद पाठ

ते । कृषिम् । च । सत्यम् । च । मनुष्या᳡ः । उप । जीवन्ति । कृष्टऽराधिः । उपऽजीवनीयः । भवति । यः । एवम् । वेद ॥१३.१२॥