ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - आर्ची बृहती

स्वरः - विराट् सूक्त

PreviousNext
स्वर सहित मन्त्र

तस्मा॑द्दे॒वेभ्यो॑ऽर्धमा॒से वष॑ट्कुर्वन्ति॒ प्र दे॑व॒यानं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

तस्मा॑त् । दे॒वेभ्य॑ः । अ॒र्ध॒ऽमा॒से । वष॑ट् । कु॒र्व॒न्ति॒ । प्र । दे॒व॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । यः । ए॒वम् । वेद॑॥१२.६॥


स्वर रहित मन्त्र

तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥


स्वर रहित पद पाठ

तस्मात् । देवेभ्यः । अर्धऽमासे । वषट् । कुर्वन्ति । प्र । देवऽयानम् । पन्थाम् । जानाति । यः । एवम् । वेद॥१२.६॥