ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - आर्ची त्रिष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्मा॒द्वन॒स्पती॑नां संवत्स॒रे वृ॒क्णमपि॑ रोहति वृ॒श्चते॒ऽस्याप्रि॑यो॒ भ्रातृ॑व्यो॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

तस्मा॑त् । वन॒स्पती॑नाम् । स॒म्ऽव॒त्स॒रे । वृ॒क्णम् । अपि॑ । रो॒ह॒ति॒ । वृ॒श्चते॑ । अ॒स्य॒ । अप्रि॑य: । भ्रातृ॑व्य: । य: । ए॒वम् । वेद॑ ॥१२.२॥


स्वर रहित मन्त्र

तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥


स्वर रहित पद पाठ

तस्मात् । वनस्पतीनाम् । सम्ऽवत्सरे । वृक्णम् । अपि । रोहति । वृश्चते । अस्य । अप्रिय: । भ्रातृव्य: । य: । एवम् । वेद ॥१२.२॥