ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा विराडनुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा वन॒स्पती॒नाग॑च्छ॒त्तां वन॒स्पत॑योऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । वन॒स्पती॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । वन॒स्पत॑य: । अ॒घ्न॒त॒ । सा । स॒म्ऽव॒त्स॒रे । सम् । अ॒भ॒व॒त् ॥१२.१॥


स्वर रहित मन्त्र

सोदक्रामत्सा वनस्पतीनागच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । वनस्पतीन् । आ । अगच्छत् । ताम् । वनस्पतय: । अघ्नत । सा । सम्ऽवत्सरे । सम् । अभवत् ॥१२.१॥