ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥

स्वर सहित पद पाठ

तुभ्य॑म् । वात॑ः । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑ः । सूर्य॑ः । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्युः । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒ः ॥१.५॥


स्वर रहित मन्त्र

तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥


स्वर रहित पद पाठ

तुभ्यम् । वातः । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आपः । सूर्यः । ते । तन्वे᳡ । शम् । तपाति । त्वाम् । मृत्युः । दयताम् । मा । प्र । मेष्ठाः ॥१.५॥