atharvaveda/8/1/21

व्यवात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्। अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥

वि । अ॒वा॒त् । ते॒ । ज्योति॑: । अ॒भू॒त् । अप॑ । त्वत् । तम॑: । अ॒क्र॒मी॒त् । अप॑ । त्वत् । मृ॒त्युम् । नि:ऽऋ॑तिम् । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ ॥१.२१॥

ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - अनुष्टुप्

स्वरः - दीर्घायु सूक्त

स्वर सहित मन्त्र

व्यवात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्। अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥

स्वर सहित पद पाठ

वि । अ॒वा॒त् । ते॒ । ज्योति॑: । अ॒भू॒त् । अप॑ । त्वत् । तम॑: । अ॒क्र॒मी॒त् । अप॑ । त्वत् । मृ॒त्युम् । नि:ऽऋ॑तिम् । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ ॥१.२१॥


स्वर रहित मन्त्र

व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। अप त्वन्मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥


स्वर रहित पद पाठ

वि । अवात् । ते । ज्योति: । अभूत् । अप । त्वत् । तम: । अक्रमीत् । अप । त्वत् । मृत्युम् । नि:ऽऋतिम् । अप । यक्ष्मम् । नि । दध्मसि ॥१.२१॥