ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - प्रस्तारपङ्क्तिः

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑। उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥

स्वर सहित पद पाठ

मा । त्वा॒ । ज॒म्भः । सम्ऽह॑नुः । मा । तम॑ः । वि॒द॒त् । मा । जि॒ह्वा । आ । ब॒र्हिः । प्र॒ऽम॒युः । क॒था । स्या॒ः । उत् । त्वा॒ । आ॒दि॒त्याः । वस॑वः । भ॒र॒न्तु॒ । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.१६॥


स्वर रहित मन्त्र

मा त्वा जम्भः संहनुर्मा तमो विदन्मा जिह्वा बर्हिः प्रमयुः कथा स्याः। उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥


स्वर रहित पद पाठ

मा । त्वा । जम्भः । सम्ऽहनुः । मा । तमः । विदत् । मा । जिह्वा । आ । बर्हिः । प्रऽमयुः । कथा । स्याः । उत् । त्वा । आदित्याः । वसवः । भरन्तु । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.१६॥