ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्वन्ता रक्ष॑तु त्वा मनु॒ष्या॒ यमि॒न्धते॑। वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥

स्वर सहित पद पाठ

रक्ष॑न्तु । त्वा॒ । अ॒ग्नय॑ः । ये । अ॒प्ऽसु । अ॒न्तः । रक्ष॑तु । त्वा॒ । म॒नुष्या᳡ः । यम् । इ॒न्धते॑ । वै॒श्वा॒न॒रः । र॒क्ष॒तु॒ । जा॒तऽवे॑दाः । दि॒व्यः । त्वा॒ । मा । प्र । धा॒क् । वि॒ऽद्युता॑ । स॒ह ॥१.११॥


स्वर रहित मन्त्र

रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते। वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥


स्वर रहित पद पाठ

रक्षन्तु । त्वा । अग्नयः । ये । अप्ऽसु । अन्तः । रक्षतु । त्वा । मनुष्या᳡ः । यम् । इन्धते । वैश्वानरः । रक्षतु । जातऽवेदाः । दिव्यः । त्वा । मा । प्र । धाक् । विऽद्युता । सह ॥१.११॥