ऋषिः - ब्रह्मा
देवता - आयुः
छन्दः - त्रिष्टुप्
स्वरः - दीर्घायु सूक्त
मा । ए॒तम् । पन्था॑म् । अनु॑ । गा॒ः । भी॒मः । ए॒षः । येन॑ । पूर्व॑म् । न । इ॒यथ॑ । तम् । ब्र॒वी॒मि॒ । तम॑ः । ए॒तत् । पु॒रु॒ष॒ । मा । प्र । प॒त्था॒ः । भ॒यम् । प॒रस्ता॑त् । अभ॑यम् । ते॒ । अ॒र्वाक् ॥१.१०॥
मा । एतम् । पन्थाम् । अनु । गाः । भीमः । एषः । येन । पूर्वम् । न । इयथ । तम् । ब्रवीमि । तमः । एतत् । पुरुष । मा । प्र । पत्थाः । भयम् । परस्तात् । अभयम् । ते । अर्वाक् ॥१.१०॥