ऋषिः - अथर्वा

देवता - चन्द्रमाः

छन्दः - त्रिष्टुप्

स्वरः - सुत्रामाइन्द्र सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

स्वर सहित पद पाठ

इन्द्र॑ः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑ःऽभिः । सु॒ऽमृ॒डी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः । बाध॑ताम् । द्वेष॑ः । अभ॑यम् । न॒ः । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥९६.१॥


स्वर रहित मन्त्र

इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥


स्वर रहित पद पाठ

इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृडीकः । भवतु । विश्वऽवेदाः । बाधताम् । द्वेषः । अभयम् । नः । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥९६.१॥