ऋषिः - भृगुः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - क्षत्रभृदग्नि सूक्त

PreviousNext
स्वर सहित मन्त्र

मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥

स्वर सहित पद पाठ

मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवत॑ः । आ । ज॒ग॒म्या॒त् । पर॑स्याः । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ढि॒ । वि । मृध॑ः । नु॒द॒स्व॒ ॥८९.३॥


स्वर रहित मन्त्र

मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताढि वि मृधो नुदस्व ॥


स्वर रहित पद पाठ

मृगः । न । भीमः । कुचरः । गिरिऽस्थाः । पराऽवतः । आ । जगम्यात् । परस्याः । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृधः । नुदस्व ॥८९.३॥